|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.5. अध्यायः 005
Mahabharata - Drona Parva - Chapter Topics
दुर्योधनपृष्टेन कर्णेन तम्प्रति द्रोणस्य सैनापत्यकरणविधानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-1-0x(4270)(44787)
रथस्थं पुरुषव्याघ्रं दृष्टा कर्णमवस्थितम्।
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्॥ 7-1-1(44788)
सनाथमिव मन्येऽहं भवता पालितं बलम्।
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम्॥ 7-1-2(44789)
कर्ण उवाच। 7-1-3x(4271)
ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः॥ 7-1-3(44790)
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर।
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम॥ 7-1-4(44791)
दुर्योधन उवाच। 7-1-5x(4272)
भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च।
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा॥ 7-1-5(44792)
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना॥ 7-1-6(44793)
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्।
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम्॥ 7-1-7(44794)
न विना नायकं सेना मुहूर्तमपि तिष्ठति।
`आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम्।'
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले॥ 7-1-8(44795)
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्॥ 7-1-9(44796)
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति।
अनायका तथा सेना सर्वान्दोषान्समर्च्छति॥ 7-1-10(44797)
स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु।
पश्य सेनापतिं युक्तमनु शान्तनवादिह॥ 7-1-11(44798)
यं हि सेनाप्रमेतारं भवान्वक्ष्यति संयुगे।
तं वयं सहिताः सर्वे करिष्यामो न संशयः। 7-1-12(44799)
कर्ण उवाच। 7-1-13x(4273)
सर्व एव महात्मान इमे पुरुषसत्तमाः।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा॥ 7-1-13(44800)
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः॥ 7-1-14(44801)
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः।
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः॥ 7-1-15(44802)
अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव॥ 7-1-16(44803)
अयं च सर्वयोधानामाचार्यः स्थिवरो गुरुः।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः॥ 7-1-17(44804)
को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे।
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात्॥ 7-1-18(44805)
न च सोऽप्यस्ति ते योधः सर्वराजसु भारत।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे॥ 7-1-19(44806)
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि।
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव॥ 7-1-20(44807)
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु।
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः॥ ॥ 7-1-21(44808)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-1-8 नेता कर्णधारः॥ 5-1-10 अदेशिकोऽग्रेसररहितः। 5-1-14 संहननं शरीरम्॥ 5-1-18 शुक्राङ्गिरसदर्शनाच्छुक्रबृहस्पतितुल्यात्। 5-1-5 पञ्चमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|